|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.133. अध्यायः 133
Mahabharata - Vana Parva - Chapter Topics
शिबिपरी7णार्थं श्येनीभूतेनेन्द्रेणानुद्रुतस्य कपोतरूपधारिणोऽग्नेः शिविंप्रति शरणागतिः ॥ 1 ॥ कपोतरिरक्षिषया राज्ञा श्येनानुमत्या स्वशरीरोत्कृत्तमांसस्य कपोतेन सह तुलारोपणम् ॥ 2 ॥ मांसापेक्षया कपोतस्य गौरवातिरेके राज्ञा स्वयमेव तुलारोहणम् ॥ 3 ॥ ततस्तुष्टाभ्यामिन्द्राग्निभ्यां तत्प्रशंसनपूर्वकं स्वलोकगमनम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
श्येन उवाच। 3-133-0x(2134)(20972)
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः।
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ॥ 3-133-1(20973)
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा।
माहिंसीर्धर्मलोभेन धर्ममुत्सृज्य मा नशः ॥ 3-133-2(20974)
राजोवाच। 3-133-3x(2135)
संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज।
मत्सकाशमनुप्रप्तः प्राणगृध्नुरयं द्विजः ॥ 3-133-3(20975)
एवमभ्यागतस्येह कपोतस्याभयार्थिनः।
अप्रदाने परो धर्मः किं त्वं श्येनेह पश्यसि ॥ 3-133-4(20976)
प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते।
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ॥ 3-133-5(20977)
[यो हि कश्चिद्द्विजान्हन्याद्गां वा लोकस्य मातरम्।
शरणागतं च त्यजते तुल्यं तेषां हि पातकम्] 3-133-6(20978)
श्येन उवाच। 3-133-7x(2136)
आहारत्सर्वभूतानि संभवन्ति महीपते।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥ 3-133-7(20979)
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्।
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ॥ 3-133-8(20980)
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशांपते।
विसृज्यकायमेष्यन्ति पन्थानमपुनर्भवम् ॥ 3-133-9(20981)
प्रमृते मयि धर्मात्मन्पुत्रदारादि नङ्क्ष्यति।
रक्षमाणः कपोतं त्वं बहून्प्राणान्न रक्षसि ॥ 3-133-10(20982)
बहून्यो बाधते धर्मो न स धर्मः कुवर्त्म तत्।
अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ॥ 3-133-11(20983)
विरोधिषु महीपाल निश्चित्य गुरुलाघवम्।
न बाधा विद्यते यत्र तं धर्मं समुपाचरेत् ॥ 3-133-12(20984)
गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये।
यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ॥ 3-133-13(20985)
राजोवाच। 3-133-14x(2137)
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम।
सुपर्णः पक्षिराट् किं त्वं धर्मं ज्ञात्वाऽभिभाषसे ॥ 3-133-14(20986)
तथाहि धर्मसंयुक्तं बहुचित्रं च भाषसे।
न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम्।
शरणैषिपरित्यागं कथं साध्विति मन्यसे ॥ 3-133-15(20987)
आहारार्थं समारम्भस्तव चायं विहंगम।
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ॥ 3-133-16(20988)
गोवृषो वा वराहो वा मृगो वा महिषोपि वा।
त्वदर्थमद्य क्रियतां यच्चान्यदिह काङ्क्षसि ॥ 3-133-17(20989)
श्येन उवाच। 3-133-18x(2138)
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा।
भक्षयामि महाराज किं ममान्येन केचचित् ॥ 3-133-18(20990)
यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव।
तमुत्सृज महीपाल कपोतमिममेव मे ॥ 3-133-19(20991)
श्येनाः कपोतान्स्वादन्ति श्रुतिरेषा सनातनी।
मा राजन्सारमज्ञात्वा कदलीस्कन्धमासज ॥ 3-133-20(20992)
राजोवाच। 3-133-21x(2139)
राष्ट्रं शिवीनामृद्धं वै शाधि पक्षिभिरर्चितः।
कृत्स्नमेतन्मया दत्तं राजवद्विहगोत्तम ॥ 3-133-21(20993)
यं वा कामयसे कामं श्येन सर्वं ददानि ते।
विनेमं पक्षिणं श्यन शरणार्थिनमागतम् ॥ 3-133-22(20994)
येनेमं स्थापयेथास्त्वं कर्मणा पक्षिसत्तम।
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ॥ 3-133-23(20995)
श्येन उवाच। 3-133-24x(2140)
उशीनर कपोते ते यदि स्नेहो नराधिप।
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ॥ 3-133-24(20996)
यदा समं कपोतेन तव मांसं नृपोत्तम।
त्वया प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ॥ 3-133-25(20997)
राजोवाच। 3-133-26x(2141)
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे।
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ॥ 3-133-26(20998)
लेमश उवाच। 3-133-27x(2142)
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित्।
तुलयामास कौन्तेय कपोतेन समं विभो ॥ 3-133-27(20999)
ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते।
पुनश्चोत्कृत्यमांसानि राजा प्रादादुशीनरः ॥ 3-133-28(21000)
न विद्यते यदा मांसं कपोतेन समं धृतम्।
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ॥ 3-133-29(21001)
श्येन उवाच। 3-133-30x(2143)
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम्।
जिज्ञासमानौ धर्म त्वां यज्ञवाटमुपागतौ ॥ 3-133-30(21002)
यत्ते मांसानि गात्रेभ्य उक्तृत्तानि विशांपते।
एषा ते शाश्वती कीर्तिर्लोकानभिभविष्यति ॥ 3-133-31(21003)
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव।
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ॥ 3-133-32(21004)
इत्युक्त्वा भूमिपतये तस्मै दत्त्वा यथेप्सितम्।
प्रशस्य जग्मतू राजन्निन्द्राग्री तुष्टमानसौ ॥ 3-133-33(21005)
उशीनरोऽपिधर्मात्मा धर्मेणावृत्यरोदसी।
विभ्राजमानो वपुषाऽप्यारुरोह त्रिविष्टपम् ॥ 3-133-34(21006)
तदेतत्सदनं राजन्राज्ञस्तस्य महात्मनः।
पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ॥ 3-133-35(21007)
तत्र वै सततं देवा मुनयश्च सनातनाः।
दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ॥ 3-133-36(21008)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-133-2 मा रक्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि इति झ. पाठः ॥ 3-133-20 कदलीस्कन्धमासजेति कदलीस्कन्धतुल्ये निःशारेऽस्मिन् धर्मे मा सज्जो भवेत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|